३.४०.७

ततो रावणमारीचौ विमानमिव तं रथम् ।
आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् ॥

अन्वयः

ततः thereafter, रावणमारीचौ Ravana and Maricha, तं रथम् that chariot, विमानमिव like an aerial chariot, आरुह्य ascending, तस्मात् from that, आश्रममण्डलात् cluster of hermitages, शीघ्रम् quickly, ययतुः departed.

M N Dutt

Thereupon Tārakā's son assented to Rāvana's words, and both of them ascending the chariot like to a heavenly car set out for the hermitage.

Summary

Thereafter Ravana and Maricha ascended the chariot, which was like an aerial car, and quickly departed from that cluster of hermitages.

पदच्छेदः

ततोततस् (अव्ययः)
रावणमारीचौरावण–मारीच (१.२)
विमानम्विमान (२.१)
इवइव (अव्ययः)
तंतद् (२.१)
रथम्रथ (२.१)
आरुह्यआरुह्य (√आ-रुह् + ल्यप्)
ययतुःययतुः (√या लिट् प्र.पु. द्वि.)
शीघ्रंशीघ्र (२.१)
तस्माद्तद् (५.१)
आश्रममण्डलात्आश्रम–मण्डल (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो रा मा री चौ
वि मामि तं थम्
रुह्य तुः शी घ्रं
स्मा दाश्रण्ड लात्