३.४१.१८

जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः ।
अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥

अन्वयः

नरशार्दूल O tiger among men, मृगसत्तमः great deer, जीवन् with life, ते to you, ग्रहणम् catch, न not, अभ्येति यदि can be caught, मे for me, रुचिरम् this beautiful, अजिनम् skin, भविष्यति will be.

M N Dutt

O best of men, if can you not get hold of it alive its skin shall also look very beautiful (to us).

Summary

O best among men, if this great deer cannot be captured alive, I will wear its beautiful skin.

पदच्छेदः

जीवन्जीवत् (√जीव् + शतृ, १.१)
(अव्ययः)
यदियदि (अव्ययः)
तेत्वद् (६.१)
ऽभ्येतिअभ्येति (√अभि-इ लट् प्र.पु. एक.)
ग्रहणंग्रहण (२.१)
मृगसत्तमःमृग–सत्तम (१.१)
अजिनंअजिन (१.१)
नरशार्दूलनर–शार्दूल (८.१)
रुचिरंरुचिर (१.१)
मेमद् (६.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

जीन्नदि ते ऽभ्येति
ग्र णंमृत्त मः
जि नं शा र्दू
रुचि रं मे विष्यति