३.४१.१९

निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि ।
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥

अन्वयः

शष्पबृस्यां on a cushion of tender grass, विनीतायाम् it spread, निहतस्य if killed, अस्य सत्त्वस्य this animal's, जाम्बूनदमयत्वचि its golden skin, अहम् I, उपासितुम् to sit, इच्छामि desire.

M N Dutt

Spreading on Kuća the skin of this golden deer when killed do I wish to invoke the Almighty.

Summary

If this animal is killed and its golden skin is spread on a tender grass cushion, there will I like to sit.

पदच्छेदः

निहतस्यास्यनिहत (√नि-हन् + क्त, ६.१)–इदम् (६.१)
सत्त्वस्यसत्त्व (६.१)
जाम्बूनदमयत्वचिजाम्बूनद–मय–त्वच् (७.१)
शष्पबृस्यांशष्प–बृसी (७.१)
विनीतायाम्विनीत (√वि-नी + क्त, ७.१)
इच्छाम्य्इच्छामि (√इष् लट् उ.पु. )
अहम्मद् (१.१)
उपासितुम्उपासितुम् (√उप-आस् + तुमुन्)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि स्यास्य त्त्वस्य
जा म्बूत्वचि
ष्प बृ स्यांवि नी ता या
मि च्छाम्यमु पासि तुम्