३.४१.२१

तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा ।
तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ।
बभूव राघवस्यापि मनो विस्मयमागतम् ॥

अन्वयः

काञ्चनवर्णेन by its golden colour, मणिप्रवरशृङ्गिणा horned with excellent gems, तरुणादित्यवर्णेन by its colour resembling the rising Sun, नक्षत्रपथवर्चसा by shining like the milkyway, तेन by, राघवस्य of Rama, मनः अपि mind also, विस्मयम् amazement, आगतम् arose.

Summary

By his golden colour resembling the rising Sun, by his horns with excellent gems shining like the milkyway, even Rama's mind was wonderstruck.

पदच्छेदः

तेनतद् (३.१)
काञ्चनरोम्नाकाञ्चनरोमन् (३.१)
तुतु (अव्ययः)
मणिप्रवरशृङ्गिणामणि–प्रवर–शृङ्गिन् (३.१)
तरुणादित्यवर्णेनतरुण–आदित्य–वर्ण (३.१)
नक्षत्रपथवर्चसानक्षत्रपथ–वर्चस् (३.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
राघवस्यापिराघव (६.१)–अपि (अव्ययः)
मनोमनस् (१.१)
विस्मयम्विस्मय (२.१)
आगतम्आगत (√आ-गम् + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
ते काञ्च रो म्णातु णिप्र
शृङ्गि णारु णा दित्य र्णे
क्षत्रर्च सा भू रा
स्यापि नो विस्म मा तम्