३.४१.४

शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ।
तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥

अन्वयः

तम् him, दृष्ट्वा after seeing, शङ्कमानः suspected, लक्ष्मणः Lakshmana, रामम् to Rama, अब्रवीत् said, अहम् I, एनम् him, मृगम् deer, तम् him, मारीचमेव Maricha only, मन्ये I think.

M N Dutt

Seeing him Lakşmana, struck with fear, said Me-thinks, this deer is the Raksasa Marica.

Summary

Seeing the deer, Lakshmana suspected him to be Maricha and said this to Rama.

पदच्छेदः

शङ्कमानस्शङ्कमान (√शङ्क् + शानच्, १.१)
तुतु (अव्ययः)
तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
लक्ष्मणोलक्ष्मण (१.१)
रामम्राम (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
तम्तद् (२.१)
एवैनम्एव (अव्ययः)–एनद् (२.१)
अहंमद् (१.१)
मन्येमन्ये (√मन् लट् उ.पु. )
मारीचंमारीच (२.१)
राक्षसंराक्षस (२.१)
मृगम्मृग (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्क मास्तु तं दृ ष्ट्वा
क्ष्म णो राब्र वीत्
मे वै हं न्ये
मा री चं राक्ष संमृ गम्