३.४२.१६

ततो विचित्रकेयूरः सर्वाभरणभूषितः ।
हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः ॥

पदच्छेदः

ततोततस् (अव्ययः)
विचित्रकेयूरःविचित्र–केयूर (१.१)
सर्वाभरणभूषितःसर्व–आभरण–भूषित (√भूषय् + क्त, १.१)
हेममालीहेमन्–मालिन् (१.१)
महादंष्ट्रोमहत्–दंष्ट्र (१.१)
राक्षसोराक्षस (१.१)
ऽभूच्अभूत् (√भू प्र.पु. एक.)
छराहतःशर–आहत (√आ-हन् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोवि चित्र के यू रः
र्वा भूषि तः
हे मा ली हा दं ष्ट्रो
राक्ष सो ऽभूच्छ रा तः