३.४२.५

अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने ।
अतिवृत्तमिषोः पाताल्लोभयानं कदाचन ॥

पदच्छेदः

अवेक्ष्यावेक्ष्यअवेक्ष्य (√अव-ईक्ष् + ल्यप्)–अवेक्ष्य (√अव-ईक्ष् + ल्यप्)
धावन्तंधावत् (√धाव् + शतृ, २.१)
धनुष्पाणिर्धनुष्पाणि (१.१)
महावनेमहत्–वन (७.१)
अतिवृत्तम्अतिवृत्त (√अति-वृत् + क्त, २.१)
इषोःइषु (६.१)
पाताल्पात (५.१)
लोभयानंलोभयान (√लोभय् + शानच्, २.१)
कदाचनकदाचन (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वे क्ष्या वेक्ष्य धा न्तं
नु ष्पा णिर्म हा ने
ति वृत्तमि षोः पा ता
ल्लो या नं दा