३.४२.६

शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे ।
दश्यमानमदृश्यं च नवोद्देशेषु केषुचित् ॥

पदच्छेदः

शङ्कितंशङ्कित (√शङ्क् + क्त, २.१)
तुतु (अव्ययः)
समुद्भ्रान्तम्समुद्भ्रान्त (√समुद्-भ्रम् + क्त, २.१)
उत्पतन्तम्उत्पतत् (√उत्-पत् + शतृ, २.१)
इवाम्बरेइव (अव्ययः)–अम्बर (७.१)
दृश्यमानम्दृश्यमान (√दृश् + शानच्, २.१)
अदृश्यंअदृश्य (२.१)
(अव्ययः)
नवोद्देशेषुनव–उद्देश (७.३)
केषुचित्कश्चित् (७.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्कि तंतु मु द्भ्रान्त
मुत्पन्तमि वाम्ब रे
श्य मा दृ श्यं
वो द्दे शेषु केषु चित्