३.४२.८

दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् ।
आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः ॥

पदच्छेदः

दर्शनादर्शनेनैवदर्शन–अदर्शन (३.१)–एव (अव्ययः)
सोतद् (१.१)
ऽपाकर्षतअपाकर्षत (√अप-कृष् लङ् प्र.पु. एक.)
राघवम्राघव (२.१)
आसीत्आसीत् (√अस् लङ् प्र.पु. एक.)
क्रुद्धस्क्रुद्ध (√क्रुध् + क्त, १.१)
तुतु (अव्ययः)
काकुत्स्थोकाकुत्स्थ (१.१)
विवशस्विवश (१.१)
तेनतद् (३.१)
मोहितःमोहित (√मोहय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्श नार्श ने नै
सो ऽपार्ष रा वम्
सी त्क्रु द्धस्तु का कु त्स्थो
वि स्ते मोहि तः