३.४३.२९

धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे ।
स्त्रीत्वाद्दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् ॥

अन्वयः

त्वाम् you, धिक् fie upon, स्त्रीत्वात् दुष्टस्वभावेन woman's wicked nature, त्वम् you, गुरुवाक्ये on the word of my brother, व्यवस्थितम् stood firmly, माम् me, यत् since, एवम् thus, विशङ्कसे doubting, प्रणश्य you will fall to ruin.

Summary

Fie upon you. Like a woman of wicked nature you doubt me when I stood firm by my brother's words. You will go to ruin.

पदच्छेदः

धिक्धिक् (अव्ययः)
त्वाम्त्वद् (२.१)
अद्यअद्य (अव्ययः)
प्रणश्यप्रणश्य (√प्र-नश् + ल्यप्)
त्वंत्वद् (१.१)
यन्यत् (अव्ययः)
माम्मद् (२.१)
एवंएवम् (अव्ययः)
विशङ्कसेविशङ्कसे (√वि-शङ्क् लट् म.पु. )
स्त्रीत्वाद्स्त्री–त्व (५.१)
दुष्टस्वभावेनदुष्ट–स्वभाव (३.१)
गुरुवाक्येगुरु–वाक्य (७.१)
व्यवस्थितम्व्यवस्थित (√व्यव-स्था + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

धि क्त्वा द्यप्र श्य त्वं
न्मा मे वंविङ्क से
स्त्री त्वा द्दु ष्टस्व भा वे
गुरु वा क्येव्यस्थि तम्