३.४३.३७

ततस्तु सीतामभिवाद्य लक्ष्मणः; कृताञ्जलिः किंचिदभिप्रणम्य ।
अवेक्षमाणो बहुशश्च मैथिलीं; जगाम रामस्य समीपमात्मवान् ॥

M N Dutt

Afterwards the pure-hearted Laksmana, having control over his senses, saluting Sītā with clasped palms and bending low a little proceeded where Rāma was, casting again and again his glance upon her as he went.

पदच्छेदः

ततस्ततस् (अव्ययः)
तुतु (अव्ययः)
सीताम्सीता (२.१)
अभिवाद्यअभिवाद्य (√अभि-वादय् + ल्यप्)
लक्ष्मणःलक्ष्मण (१.१)
कृताञ्जलिःकृत (√कृ + क्त)–अञ्जलि (१.१)
किंचिद्कश्चित् (२.१)
अभिप्रणम्यअभिप्रणम्य (√अभिप्र-नम् + ल्यप्)
अवेक्षमाणोअवेक्षमाण (√अव-ईक्ष् + शानच्, १.१)
बहुशश्बहुशस् (अव्ययः)
(अव्ययः)
मैथिलींमैथिली (२.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
रामस्यराम (६.१)
समीपम्समीप (२.१)
आत्मवान्आत्मवत् (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
स्तु सी ताभि वाद्यक्ष्म णः
कृ ताञ्ज लिः किंचि भिप्रम्य
वेक्ष मा णोहुश्च मैथि लीं
गा रास्य मी मात्म वान्