३.४४.३२

उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ।
अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥

अन्वयः

तदा then, पूर्वम् first, आसनम् seat, उपनीय brought, पाद्येन water for his feet, अभिनिमन्त्र्य च and inviting (for food), सौम्यदर्शनम् lovelylooking, तम् to him, सिद्धम् food ready, इत्येव in this way, अब्रवीत् said.

M N Dutt

Offering him a seat first and afterwards inviting him to wash his feet she said to that one of placid look cooked rice is ready.

Summary

She offered the handsome guest a seat first and then water for washing his feet with, and then invited him for food.

पदच्छेदः

उपानीयासनंउपानीय (√उपा-नी + ल्यप्)–आसन (२.१)
पूर्वंपूर्वम् (अव्ययः)
पाद्येनाभिनिमन्त्र्यपाद्य (३.१)–अभिनिमन्त्र्य (√अभिनि-मन्त्रय् + ल्यप्)
(अव्ययः)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
सिद्धम्सिद्ध (√सिध् + क्त, १.१)
इत्य्इति (अव्ययः)
एवएव (अव्ययः)
तदातदा (अव्ययः)
तंतद् (२.१)
सौम्यदर्शनम्सौम्य–दर्शन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पा नी या नं पू र्वं
पा द्ये नाभिनिन्त्र्य
ब्र वी त्सिद्ध मि त्ये
दा तं सौम्यर्श नम्