३.४५.१६

तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ।
रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ॥

अन्वयः

तस्य रामस्य such Rama's, द्वैमात्रः भ्राता second mother's son, half brother, वीर्यवान् strong, पुरुषव्याघ्रः tiger among men, अरिहा slayer of enemies, लक्ष्मणो नाम by name Lakshmana, समरे in battle, सहाय: companion.

M N Dutt

His half-brother named Lakşmaņa is of mighty prowess. That best of men is Rāma's help and the destroyer of foes in battle. That brother of his named Lakşmaņa is of firm resolution and given to asceticism.

Summary

Son to the second mother of Rama, his mighty halfbrother, by name, Lakshmana, a tiger among men and a slayer of enemies in battle is a companion to him.

पदच्छेदः

तस्यतद् (६.१)
भ्राताभ्रातृ (१.१)
तुतु (अव्ययः)
वैमात्रोवैमात्र (१.१)
लक्ष्मणोलक्ष्मण (१.१)
नामनाम (अव्ययः)
वीर्यवान्वीर्यवत् (१.१)
रामस्यराम (६.१)
पुरुषव्याघ्रःपुरुष–व्याघ्र (१.१)
सहायःसहाय (१.१)
समरेसमर (७.१)
ऽरिहाअरि–हन् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य भ्रा तातु वै मा त्रो
क्ष्म णो ना वीर्य वान्
रास्यपुरु व्या घ्रः
हा यः रेऽरि हा