३.४५.२२

येन वित्रासिता लोकाः सदेवासुरपन्नगाः ।
अहं स रावणो नाम सीते रक्षोगणेश्वरः ॥

अन्वयः

सीते O Sita, अहम् I am, येन by whom, सदेवासुरपन्नगाः asuras and pannagas along with gods, लोकाः worlds, वित्रासिताः are frightened, रक्षोगणेश्वरः lord of demons, रावणो नाम Ravana by name.

M N Dutt

O Sītā I am that Rāvaņa, the lord of Rākşasas, whoin fear the celestials, Asuras and human beings.

Summary

O Sita I am called Ravana, the lord of demons by whom all the worlds of demons, snakes and gods are frightened.

पदच्छेदः

येनयद् (३.१)
वित्रासितावित्रासित (√वि-त्रासय् + क्त, १.३)
लोकाःलोक (१.३)
सदेवासुरपन्नगाः (अव्ययः)–देव–असुर–पन्नग (१.३)
अहंमद् (१.१)
तद् (१.१)
रावणोरावण (१.१)
नामनाम (अव्ययः)
सीतेसीता (८.१)
रक्षोगणेश्वरःरक्षस्–गण–ईश्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ये वि त्रासि ता लो काः
दे वासुन्न गाः
हं रा णो ना
सी ते क्षो णेश्व रः