३.४५.२६

तत्र सीते मया सार्धं वनेषु विचरिष्यसि ।
न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥

अन्वयः

सीते O Sita, तत्र there, मया सार्धम् with me, वनेषु in the gardens, विहरिष्यसि can stroll with pleasure, भामिनि O beautiful woman, अस्य of this, अरण्यस्य वासस्य living in the forest, न च स्पृहयिष्यसि will not like.

M N Dutt

There shall you with me, O Sītā, walk in gardens, and thus you shall no more long for living in the forest.

Summary

O Sita, you can stroll with me in my pleasuregardens. O beautiful lady, you will not like living in the forest (thereafter).

पदच्छेदः

तत्रतत्र (अव्ययः)
सीतेसीता (८.१)
मयामद् (३.१)
सार्धंसार्धम् (अव्ययः)
वनेषुवन (७.३)
विचरिष्यसिविचरिष्यसि (√वि-चर् लृट् म.पु. )
(अव्ययः)
चास्यारण्यवासस्य (अव्ययः)–इदम् (६.१)–अरण्य–वास (६.१)
स्पृहयिष्यसिस्पृहयिष्यसि (√स्पृहय् लृट् म.पु. )
भामिनिभामिनी (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र सी ते या सा र्धं
नेषुवि रिष्यसि
चा स्याण्य वास्य
स्पृ यिष्यसि भामिनि