३.४६.१३

तत्र त्वं वसती सीते राजपुत्रि मया सह ।
न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि ॥

अन्वयः

राजपुत्रि princess, मनस्विनि highminded, सीते Sita, तत्र there, मया सह along with me, वसती while residing, मानुषीणाम् of human beings, नारीणाम् of women, न स्मरिष्यसि you will not think of.

M N Dutt

O Sītā, O you the daughter of a king, in this city shall you dwell with me. O large-minded damsel, you shall never think of earthly women.

Summary

O highminded princess, O Sita while living with me, you will not even think of other women.

पदच्छेदः

तत्रतत्र (अव्ययः)
त्वंत्वद् (१.१)
वसतीवसत् (√वस् + शतृ, १.१)
सीतेसीता (८.१)
राजपुत्रिराजन्–पुत्री (८.१)
मयामद् (३.१)
सहसह (अव्ययः)
(अव्ययः)
स्मरिष्यसिस्मरिष्यसि (√स्मृ लृट् म.पु. )
नारीणांनारी (६.३)
मानुषीणांमानुषी (६.३)
मनस्विनिमनस्विनी (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र त्वं ती सी ते
रा पुत्रि या
स्र मिष्यसि ना री णां
मानु षी णांस्विनि