३.४६.७

मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि ।
विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥

अन्वयः

मैथिलि O Maithili, सञ्जातरोषस्य when I get angry, मम my, मुखम् face, दृष्ट्वैव on seeing alone, परित्रस्ताः frightened , शक्रपुरोगमाः led by Indra, सुराः gods, विद्रवन्ति run away.

M N Dutt

O Maithilee, when I am excited with ire, Indra and other celestials at the mere sight of my countenance fly away in divers directions out of fear.

Summary

O Princess from Mithila, seeing my angry face even gods led by Indra take to their heels in fear.

पदच्छेदः

मममद् (६.१)
संजातरोषस्यसंजात (√सम्-जन् + क्त)–रोष (६.१)
मुखंमुख (२.१)
दृष्ट्वैवदृष्ट्वा (√दृश् + क्त्वा)–एव (अव्ययः)
मैथिलिमैथिली (८.१)
विद्रवन्तिविद्रवन्ति (√वि-द्रु लट् प्र.पु. बहु.)
परित्रस्ताःपरित्रस्त (√परि-त्रस् + क्त, १.३)
सुराःसुर (१.३)
शक्रपुरोगमाःशक्र–पुरोगम (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं जा रोस्य
मु खं दृ ष्ट्वै मैथिलि
विद्रन्ति रि त्र स्ताः
सु राःक्रपु रो माः