३.४७.१

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥

अन्वयः

प्रतापवाम् powerful, दशग्रीवः tenheaded Ravana, सीतायाः Sita's, वचनम् words, श्रुत्वा having heard, हस्ते by the palm, हस्तम् palm, समाहत्य striking, सुमहत् very great, वपुः body, चकार assumed.

M N Dutt

Hearing those words of Sītā the highly powerful Ten necked one striking his hands together, increased his body too high.

Summary

On hearing the Sita's words, the powerful Ravana struck his palms one over the other and assumed a huge form (original figure).

पदच्छेदः

सीतायासीता (६.१)
वचनंवचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
दशग्रीवःदशग्रीव (१.१)
प्रतापवान्प्रतापवत् (१.१)
हस्तेहस्त (७.१)
हस्तंहस्त (२.१)
समाहत्यसमाहत्य (√समा-हन् + ल्यप्)
चकारचकार (√कृ लिट् प्र.पु. एक.)
सुमहद्सु (अव्ययः)–महत् (२.१)
वपुःवपुस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सी ता या नं श्रु त्वा
ग्री वःप्र ता वान्
स्ते स्तं मात्य
कासुद्व पुः