३.४७.१९

ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः ।
अङ्केनादाय वैदेहीं रथमारोपयत्तदा ॥

अन्वयः

तदा then, महास्वनः Ravana in a loud voice, सः he, तां वैदेहीम् Vaidehi, परुषैः with harsh, वाक्यैः words, भर्त्सयन् reproaching, अङ्केन on his lap, आदाय on lifting, रथम् chariot, आरोपयत् placed.

M N Dutt

Thereupon, that one emmiting terrible accents, remonstrated with Vaidehī in harsh words and clasping her ascended the car.

Summary

Reproaching the princess from Videha loudly and harshly, Ravana took her on his lap and put her on the chariot.

पदच्छेदः

ततस्ततस् (अव्ययः)
तांतद् (२.१)
परुषैर्परुष (३.३)
वाक्यैर्वाक्य (३.३)
अभितर्ज्यअभितर्ज्य (√अभि-तर्जय् + ल्यप्)
महास्वनःमहत्–स्वन (१.१)
अङ्केनादायअङ्क (३.१)–आदाय (√आ-दा + ल्यप्)
वैदेहींवैदेही (२.१)
रथम्रथ (२.१)
आरोपयत्आरोपयत् (√आ-रोपय् लङ् प्र.पु. एक.)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तांरु षै र्वा क्यै
भिर्ज्य हास्व नः
ङ्के ना दा वै दे हीं
मा रोत्त दा