३.४७.२६

ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ।
कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ॥

अन्वयः

अविनीतस्य arrogant, कर्मणः action, फलम् result, सद्यः right now, न दृश्यते नु not seen, सस्यानाम् crop, पक्तये इव ripening, अत्र in the same way, कालोऽपि it takes time also, अङ्गीभवति serves as a supporting factor.

M N Dutt

The vicious do not instantaneously meet with the fruits of their actions, as for corn to ripen requires the assistance of time.

Summary

The effect of arrogant action cannot be seen right away. Just as the crop yields results only after ripening, in the same way it takes time. Time acts as a supporting factor.

पदच्छेदः

ननुननु (अव्ययः)
सद्योसद्यस् (अव्ययः)
ऽविनीतस्यअविनीत (६.१)
दृश्यतेदृश्यते (√दृश् प्र.पु. एक.)
कर्मणःकर्मन् (६.१)
फलम्फल (१.१)
कालोकाल (१.१)
ऽप्य्अपि (अव्ययः)
अङ्गीअङ्गिन् (१.१)
भवत्य्भवति (√भू लट् प्र.पु. एक.)
अत्रअत्र (अव्ययः)
सस्यानाम्सस्य (६.३)
इवइव (अव्ययः)
पक्तयेपक्ति (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नु द्योऽवि नीस्य
दृश्य तेर्म णः लम्
का लो ऽप्य ङ्गी त्यत्र
स्या नामिक्त ये