३.४८.७

न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् ।
यथात्मनस्तथान्येषां दारा रक्ष्या विमर्शनात् ॥

अन्वयः

नीचाम् mean, मतिम् in mind, परदाराभिमर्शनात् thought of touching another's wife, निवर्तय refrain yourself, परः others, अस्य his, यत् such deeds, विगर्हयेत् if he reproaches, तत् that, धीरः learned, न समाचरेत् should not adopt, विपश्चिता by the wise man, आत्मनः his own, यथा likewise, तथा in the same way, अन्येषाम् another's, दाराः wife, रक्ष्याः be protected.

Summary

Refrain yourself from the vile thought of violating other's wives. Wise men do not adopt what is censured by others. Just like one's own, the wise should protect other's wives.

पदच्छेदः

(अव्ययः)
तत्तद् (२.१)
समाचरेद्समाचरेत् (√समा-चर् विधिलिङ् प्र.पु. एक.)
धीरोधीर (१.१)
यत्यद् (२.१)
परोपर (१.१)
ऽस्यइदम् (६.१)
विगर्हयेत्विगर्हयेत् (√वि-गर्हय् विधिलिङ् प्र.पु. एक.)
यथात्मनस्यथा (अव्ययः)–आत्मन् (६.१)
तथान्येषांतथा (अव्ययः)–अन्य (६.३)
दारादार (१.३)
रक्ष्यारक्ष्य (√रक्ष् + कृत्, १.३)
विमर्शनात्विमर्शन (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्स मा रे द्धी रो
त्प रोऽस्यविर्ह येत्
थात्मस्त था न्ये षां
दा रा क्ष्याविर्श नात्