३.४९.१

इत्युक्तस्य यथान्यायं रावणस्य जटायुषा ।
क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ॥

अन्वयः

जटायुषा by Jatayu, यथान्यायम् justly, इति in this manner, उक्तस्य told, क्रुद्धस्य of the enraged, रावणस्य Ravana's, सर्वाः all, विंशतिदृष्टयः twenty eyes, अग्निनिभाः like fire, रेजुः glowed.

Summary

Ravana's twenty eyes glowed like fire in anger after Jatayu thus rightly said.

पदच्छेदः

इत्य्इति (अव्ययः)
उक्तस्यउक्त (√वच् + क्त, ६.१)
यथान्यायंयथान्यायम् (अव्ययः)
रावणस्यरावण (६.१)
जटायुषाजटायुस् (३.१)
क्रुद्धस्याग्निनिभाःक्रुद्ध (√क्रुध् + क्त, ६.१)–अग्नि–निभ (१.३)
सर्वासर्व (१.३)
रेजुर्रेजुः (√राज् लिट् प्र.पु. बहु.)
विंशतिदृष्टयःविंशति–दृष्टि (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यु क्तस्य था न्या यं
रास्य टायु षा
क्रु द्ध स्याग्निनि भाः र्वा
रे जु र्विंति दृष्ट यः