३.४९.११

ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् ।
चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ॥

अन्वयः

ततः then, महातेजाः glorious, पतगेश्वरः lord of birds, अस्य his, मुक्तामणिविभूषितम् encrusted with pearls and gems, सशरम् along with that arrow, चापम् bow, चरणाभ्याम् with his feet, बभञ्ज broke.

Summary

The glorious lord of birds crushed with his feet the bow and arrow of Ravana with pearls and gems encrusted.

पदच्छेदः

ततोततस् (अव्ययः)
ऽस्यइदम् (६.१)
सशरं (अव्ययः)–शर (२.१)
चापंचाप (२.१)
मुक्तामणिविभूषितम्मुक्ता–मणि–विभूषित (√वि-भूषय् + क्त, २.१)
चरणाभ्यांचरण (३.२)
महातेजामहत्–तेजस् (१.१)
बभञ्जबभञ्ज (√भञ्ज् लिट् प्र.पु. एक.)
पतगेश्वरःपतग–ईश्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोऽस्य रं चा पं
मु क्ताणिवि भूषि तम्
णा भ्यां हा ते जा
ञ्ज गेश्व रः