३.४९.२९

तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः ।
अधिरूढो गजारोहि यथा स्याद्दुष्टवारणम् ॥

अन्वयः

(ततः thereafter), तं गृहीत्वा seizing him, अधिरूढः ascended, गजारोहः riding on an elephant, दुष्टवारणम् unruly elephant, यथा so also, स्यात् he, तीक्ष्णैः sharp, नखैः claws, समन्ततः all over, विददार pierced.

Summary

Thereafter, seizing Ravana, Jatayu ascended on his back and pierced his body all over with his sharp claws just as a rider goads an unruly elephant.

पदच्छेदः

तंतद् (२.१)
गृहीत्वागृहीत्वा (√ग्रह् + क्त्वा)
नखैस्नख (३.३)
तीक्ष्णैर्तीक्ष्ण (३.३)
विररादविरराद (√वि-रद् लिट् प्र.पु. एक.)
समन्ततःसमन्ततः (अव्ययः)
अधिरूढोअधिरूढ (√अधि-रुह् + क्त, १.१)
गजारोहोगज–आरोह (१.१)
यथायथा (अव्ययः)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
दुष्टवारणम्दुष्ट (√दुष् + क्त)–वारण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंगृ ही त्वा खै स्ती क्ष्णै
र्वि रान्त तः
धि रू ढो जा रोहि
था स्या द्दुष्ट वा णम्