३.४९.३०

विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् ।
केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥

अन्वयः

अस्य his, पृष्ठे back, तुण्डम् beak, समर्पयन् pressing, नखैः claws, विददार pierced, नखपक्षमुखायुधः a warrior with claws, wings and beak as the only weapons, केशांश्च hair too, उत्पाटयामास pulled out.

Summary

Jatayu who had his claws, wings and beak as the only weapons pierced and pricked Ravana all over with his nails by pressing his beak on his back and pulled out his hair.

पदच्छेदः

विररादविरराद (√वि-रद् लिट् प्र.पु. एक.)
नखैर्नख (३.३)
अस्यइदम् (६.१)
तुण्डंतुण्ड (२.१)
पृष्ठेपृष्ठ (७.१)
समर्पयन्समर्पयत् (√सम्-अर्पय् + शतृ, १.१)
केशांश्केश (२.३)
चोत्पाटयामास (अव्ययः)–उत्पाटयामास (√उत्-पाटय् प्र.पु. एक.)
नखपक्षमुखायुधःनख–पक्ष–मुख–आयुध (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि रा खैस्य
तु ण्डं पृ ष्ठेर्प यन्
के शां श्चो त्पा या मा
क्षमु खायु धः