३.४९.३३

जटायुस्तमतिक्रम्य तुण्डेनास्य खराधिपः ।
वामबाहून्दश तदा व्यपाहरदरिंदमः ॥

अन्वयः

तदा then, खगाधिपः lord of the birds, अरिन्दमः subduer of enemies, जटायुः Jatayu, तम् him, अभिक्रम्य occupied, तुण्डेन by his beak, अस्य Ravana's, दश ten, वामबाहून् left arms, व्यपाहरत् cut off.

M N Dutt

Jatayu, the subduer of foes, bearing the strokes, tore into pieces his ten left arms with his beak.

Summary

Then Jatayu, lord of the birds, subduer of enemies, overpowered Ravana and dismembered his ten left arms with his beak.

पदच्छेदः

जटायुस्जटायुस् (१.१)
तम्तद् (२.१)
अतिक्रम्यअतिक्रम्य (√अति-क्रम् + ल्यप्)
तुण्डेनास्यतुण्ड (३.१)–इदम् (६.१)
खराधिपःखर–अधिप (१.१)
वामबाहून्वाम–बाहु (२.३)
दशदशन् (२.१)
तदातदा (अव्ययः)
व्यपाहरद्व्यपाहरत् (√व्यप-हृ लङ् प्र.पु. एक.)
अरिंदमःअरिंदम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

टा युस्त ति क्रम्य
तु ण्डे नास्य राधि पः
वा बा हून्द दा
व्य पा रिं मः