३.५०.१

तमल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः ।
ददर्श गृध्रं पतितं समीपे राघवाश्रमात् ॥

पदच्छेदः

तम्तद् (२.१)
अल्पजीवितंअल्प–जीवित (२.१)
भूमौभूमि (७.१)
स्फुरन्तंस्फुरत् (√स्फुर् + शतृ, २.१)
राक्षसाधिपःराक्षस–अधिप (१.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
गृध्रंगृध्र (२.१)
पतितंपतित (√पत् + क्त, २.१)
समीपेसमीप (७.१)
राघवाश्रमात्राघव–आश्रम (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ल्प जीवि तं भू मौ
स्फु न्तं राक्ष साधि पः
र्श गृ ध्रंति तं
मी पे रा वाश्र मात्