३.५१.१३

येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ।
व्यवसायः स ते नीच भविष्यति निरर्थकः ॥

अन्वयः

नीच O mean fellow, त्वम् you, येन by which, व्यवसायेन effort, माम् me, बलात् by force, हर्तुम् to abduct, इच्छसि desire, ते your, सः that, व्यवसायः determination, निरर्थकः fruitless, भविष्यति will become.

Summary

O vile creature, the effort you are making to abduct me forcibly will be fruitless.

पदच्छेदः

येनयद् (३.१)
त्वंत्वद् (१.१)
व्यवसायेनव्यवसाय (३.१)
बलान्बल (५.१)
मांमद् (२.१)
हर्तुम्हर्तुम् (√हृ + तुमुन्)
इच्छसिइच्छसि (√इष् लट् म.पु. )
व्यवसायःव्यवसाय (१.१)
तद् (१.१)
तेत्वद् (६.१)
नीचनीच (८.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
निरर्थकःनिरर्थक (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ये त्वंव्य सा ये
ला न्मांर्तु मिच्छसि
व्य सा यः ते नी
विष्यतिनिर्थ कः