३.५१.४

त्वयैव नूनं दुष्टात्मन्भीरुणा हर्तुमिच्छता ।
ममापवाहितो भर्ता मृगरूपेण मायया ।
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः ॥

अन्वयः

दुष्टात्मन् O wicked fellow, हर्तुम् to abduct, इच्छता desiring, भीरुणा by a timid one, त्वयैव yourself, मम my, भर्ता husband, मायया with deceit, मृगरूपेण in the form of deer, अपवाहितः led to a distance.

M N Dutt

Coward that you are, you it was, who, desirous of carrying me off, by the shape of a deer, had, by your (powers of] illusion taken away my lord.

Summary

O wicked fellow, with an intention to abduct me you enticed my husband to a distance deceitfully in the form of a deer.

पदच्छेदः

त्वयैवत्वद् (३.१)–एव (अव्ययः)
नूनंनूनम् (अव्ययः)
दुष्टात्मन्दुष्ट (√दुष् + क्त)–आत्मन् (८.१)
भीरुणाभीरु (३.१)
हर्तुम्हर्तुम् (√हृ + तुमुन्)
इच्छताइच्छत् (√इष् + शतृ, ३.१)
ममापवाहितोमद् (६.१)–अपवाहित (√अप-वाहय् + क्त, १.१)
भर्ताभर्तृ (१.१)
मृगरूपेणमृग–रूप (३.१)
माययामाया (३.१)
योयद् (१.१)
हिहि (अव्ययः)
माम्मद् (२.१)
उद्यतस्उद्यत (√उत्-यम् + क्त, १.१)
त्रातुंत्रातुम् (√त्रा + तुमुन्)
सोतद् (१.१)
ऽप्य्अपि (अव्ययः)
अयंइदम् (१.१)
विनिपातितःविनिपातित (√विनि-पातय् + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
त्व यै नू नं दु ष्टा त्म न्भीरु णा
र्तु मिच्छ ता मा वाहि तो र्ता
मृ रू पे मा या योहि मामु
द्य स्त्रा तुं सोऽप्य यंविनि पाति तः