३.५३.५

मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् ।
अधोमुखमुखीं दीनामभ्येत्य च निशाचरः ॥

पदच्छेदः

मृगयूथपरिभ्रष्टांमृग–यूथ–परिभ्रष्ट (√परि-भ्रंश् + क्त, २.१)
मृगींमृगी (२.१)
श्वभिर्श्वन् (३.३)
इवावृताम्इव (अव्ययः)–आवृत (√आ-वृ + क्त, २.१)
अधोमुखमुखींअधोमुखमुख (२.१)
दीनाम्दीन (२.१)
अभ्येत्यअभ्येत्य (√अभ्या-इ + ल्यप्)
(अव्ययः)
निशाचरःनिशाचर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मृ यू रि भ्र ष्टां
मृ गींश्वभिरि वावृ ताम्
धोमुमु खीं दी ना
भ्येत्यनि शा रः