३.५३.६

तां तु शोकवशां दीनामवशां राक्षसाधिपः ।
स बलाद्दर्शयामास गृहं देवगृहोपमम् ॥

पदच्छेदः

तांतद् (२.१)
तुतु (अव्ययः)
शोकवशांशोक–वश (२.१)
दीनाम्दीन (२.१)
अवशांअवश (२.१)
राक्षसाधिपःराक्षस–अधिप (१.१)
तद् (१.१)
बलाद्बल (५.१)
दर्शयामासदर्शयामास (√दर्शय् प्र.पु. एक.)
गृहंगृह (२.१)
देवगृहोपमम्देवगृह–उपम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तांतु शो शां दी ना
शां राक्ष साधि पः
ला द्दर्श या मा
गृ हं देगृ हो मम्