३.५७.११

विगर्हितं च नीचं च कथमार्योऽभिधास्यति ।
त्राहीति वचनं सीते यस्त्रायेत्त्रिदशानपि ॥

अन्वयः

सीते O Sita, यः he, त्रिदशानपि even gods, त्रायेत् he may save, आर्यः capable one, विगर्हितम् demeaning, नीचं च lowly, त्राहि इति saying 'save me', वचनम् words, कथम् how, अभिधास्यति will speak out?

M N Dutt

How can he that can rescue the celestials themselves, utter, O Sītā, such a blame-worthy and base word as-save me?

Summary

'How can Rama who is capable of saving even gods speak such unworthy, demeaning words, 'Save me, O Sita'

पदच्छेदः

विगर्हितंविगर्हित (√वि-गर्ह् + क्त, २.१)
(अव्ययः)
नीचंनीच (२.१)
(अव्ययः)
कथम्कथम् (अव्ययः)
आर्योआर्य (१.१)
ऽभिधास्यतिअभिधास्यति (√अभि-धा लृट् प्र.पु. एक.)
त्राहीतित्राहि (√त्रा लोट् म.पु. )–इति (अव्ययः)
वचनंवचन (२.१)
सीतेसीता (८.१)
यस्यद् (१.१)
त्रायेत्त्रायेत् (√त्रा विधिलिङ् प्र.पु. एक.)
त्रिदशान्त्रिदश (२.३)
अपिअपि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विर्हि तं नी चं
मा र्योऽभि धास्यति
त्रा हीति नं सी ते
स्त्रा येत्त्रि शापि