३.५७.२१

न हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् ।
क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत्त्वमिहागतः ॥

अन्वयः

मैथिलीम् Maithili, त्यक्त्वा left, यद्यासि that you came, ते with you, न परितुष्यामि not pleased, त्वम् you, क्रुद्धायाः angry, परुषम् harsh, श्रुत्वा listening, ताम् her, विहाय deserting, इह here, आगतः came.

M N Dutt

I am not pleased with you that hearing her harsh speech spoken in wrath, you have come hither, leaving Vaidehi behind.

Summary

I am not happy with you as you have come here deserting Sita on the plea that she was angry and spoke harsh words.

पदच्छेदः

(अव्ययः)
हिहि (अव्ययः)
तेत्वद् (४.१)
परितुष्यामिपरितुष्यामि (√परि-तुष् लट् उ.पु. )
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
यद्यत् (अव्ययः)
यासियासि (√या लट् म.पु. )
मैथिलीम्मैथिली (२.१)
क्रुद्धायाःक्रुद्ध (√क्रुध् + क्त, ६.१)
परुषंपरुष (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
स्त्रियास्त्री (६.१)
यत्यत् (अव्ययः)
त्वम्त्वद् (१.१)
इहागतःइह (अव्ययः)–आगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि तेरि तु ष्यामि
त्य क्त्वा द्यासि मैथि लीम्
क्रु द्धा याःरु षं श्रु त्वा
स्त्रि यात्त्वमि हा तः