३.५७.७

आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च ।
परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥

अन्वयः

हा सीते Alas, Sita, हा लक्ष्मण Alas, Lakshmana, इति च these words, परित्राहि इति save me, यत् such, आर्येणेव as if your noble self, पराक्रुष्टम् loudly, तत् then, मैथिल्याः Maithili's, श्रुतिम् to her ears, गतम् reached.

M N Dutt

The cries of O Laksimana, save me, as if uttered by the master, came to the ears of Maithili.

Summary

Uttered loudly, 'Alas Sita, Alas, Lakshmana, save me', as if these were the words of your noble self, reached Sita's ears.

पदच्छेदः

आर्येणेवआर्य (३.१)–इव (अव्ययः)
परिक्रुष्टंपरिक्रुष्ट (√परि-क्रुश् + क्त, १.१)
हाहा (अव्ययः)
सीतेसीता (८.१)
लक्ष्मणेतिलक्ष्मण (८.१)–इति (अव्ययः)
(अव्ययः)
परित्राहीतिपरित्राहि (√परि-त्रा लोट् म.पु. )–इति (अव्ययः)
यद्यद् (१.१)
वाक्यंवाक्य (१.१)
मैथिल्यास्मैथिली (६.१)
तच्तद् (१.१)
छ्रुतिंश्रुति (२.१)
गतम्गत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्ये णे रि क्रु ष्टं
हा सी तेक्ष्म णेति
रि त्रा हीति द्वा क्यं
मै थि ल्या स्तच्छ्रु तिं तम्