३.५८.१

भृशमाव्रजमानस्य तस्याधोवामलोचनम् ।
प्रास्फुरच्चास्खलद्रामो वेपथुश्चास्य जायते ॥

अन्वयः

आव्रजमानस्य Rama was moving about, तस्य his, वामलोचनम् left eye, अधः underneath, भृशम् excessively, प्रास्फुरत् throbbed, रामः Rama, प्रास्खलच्च stumbled, अस्य his, वेपथुश्च shivering, जायत was produced.

M N Dutt

As Rāma went on, his feet failed him, his left eye to beat, and a trembling came over his frame.

Summary

As Rama was returning( to the hermitage), his left eye throbbed repeatedly and he stumbled and his body trembled.

पदच्छेदः

भृशम्भृशम् (अव्ययः)
आव्रजमानस्यआव्रजमान (√आ-व्रज् + शानच्, ६.१)
तस्याधोवामलोचनम्तद् (६.१)–अधस् (अव्ययः)–वाम–लोचन (१.१)
प्रास्फुरच्प्रास्फुरत् (√प्र-स्फुर् लङ् प्र.पु. एक.)
चास्खलद् (अव्ययः)–अस्खलत् (√स्खल् लङ् प्र.पु. एक.)
रामोराम (१.१)
वेपथुश्वेपथु (१.१)
चास्य (अव्ययः)–इदम् (६.१)
जायतेजायते (√जन् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भृ माव्र मास्य
स्या धो वा लो नम्
प्रास्फु च्चास्ख द्रा मो
वे थु श्चास्य जा ते