३.५८.१२

अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया ।
कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ॥

अन्वयः

कदम्ब O Kadamba, कदम्बप्रिया O lover of kadamba flowers, प्रिया my beloved, सा she, काचित् some lady, त्वया by you, अपि दृष्टा is seen, जानीषे यदि if you know, शुभाननाम् fair face, सीताम् Sita, शंस tell.

Summary

O Kadamba tree, tell me if you have seen my beloved with a fair face and with love for kadamba flowers.

पदच्छेदः

अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
कच्चित्कश्चित् (२.१)
त्वयात्वद् (३.१)
दृष्टादृष्ट (√दृश् + क्त, १.१)
सातद् (१.१)
कदम्बप्रियाकदम्ब–प्रिय (१.१)
प्रियाप्रिया (१.१)
कदम्बकदम्ब (८.१)
यदियदि (अव्ययः)
जानीषेजानीषे (√ज्ञा लट् म.पु. )
शंसशंस (√शंस् लोट् म.पु. )
सीतांसीता (२.१)
शुभाननाम्शुभ–आनन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्ति च्चित्त्व या दृ ष्टा
सा म्बप्रि याप्रि या
म्बदि जा नी षे
शं सी तांशु भा नाम्