३.५८.१६

भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् ।
एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥

अन्वयः

द्रुमवरः best of trees, अयम् this, तिलकः Tilaka, यथा as, भ्रमरैः with bees, उपगीतः is sung, एषः he that, तिलकप्रियाम् a lover of mark on the forehead, व्यक्तम् it is sure, विजानाति knows?

Summary

This great Tilaka tree round which bees bumble surely knows the lady who loves to put tilaka marks on the forehead.

पदच्छेदः

भ्रमरैर्भ्रमर (३.३)
उपगीतश्उपगीत (√उप-गा + क्त, १.१)
(अव्ययः)
यथायथा (अव्ययः)
द्रुमवरोद्रुम–वर (१.१)
ह्य्हि (अव्ययः)
अयम्इदम् (१.१)
एषएतद् (१.१)
व्यक्तंव्यक्त (२.१)
विजानातिविजानाति (√वि-ज्ञा लट् प्र.पु. एक.)
तिलकस्तिलक (१.१)
तिलकप्रियाम्तिलक–प्रिय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भ्र रैरु गीश्च
थाद्रु रोह्य यम्
व्य क्तंवि जा नाति
तिस्तिप्रि याम्