३.५८.२५

पीतकौशेयकेनासि सूचिता वरवर्णिनि ।
धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥

अन्वयः

वरवर्णिनि O lady of lovely complexion, पीतकौशेयकेन by your yellow silk, सूचिता indicated, असि you are, धावन्त्यपि even while you are running away, मया by me, दृष्टा you are seen, सौहृदम् love for me, अस्ति यदि if you have, तिष्ठ stay.

Summary

O lady of lovely complexion, I can see your yellow silk (flying), while you are running away. If you have love for me, stay on.

पदच्छेदः

पीतकौशेयकेनासिपीत–कौशेयक (३.१)–असि (√अस् लट् म.पु. )
सूचितासूचित (√सूचय् + क्त, १.१)
वरवर्णिनिवरवर्णिनी (८.१)
धावन्त्य्धावत् (√धाव् + शतृ, १.१)
अपिअपि (अव्ययः)
मयामद् (३.१)
दृष्टादृष्ट (√दृश् + क्त, १.१)
तिष्ठतिष्ठ (√स्था लोट् म.पु. )
यद्य्यदि (अव्ययः)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
सौहृदम्सौहृद (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पी कौ शे के नासि
सूचि तार्णिनि
धान्त्यपि या दृ ष्टा
तिष्ठ द्यस्ति सौहृ दम्