३.५८.२६

नैव सा नूनमथ वा हिंसिता चारुहासिनी ।
कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति ॥

अन्वयः

अथवा even so, सा she, नैव never, चारुहासिनी lady with sweet smile, हिंसिता hurt, नूनम् surely, यथा as such, कृच्छ्रप्राप्तम् when in difficulties, माम् me, उपेक्षितुम् to ignore, नार्हति should not, नूनम् surely.

Summary

O lady with a sweet smile I have never hurt you. When I am in difficulty it does not behove you to ignore me.

पदच्छेदः

नैव (अव्ययः)–एव (अव्ययः)
सातद् (१.१)
नूनम्नूनम् (अव्ययः)
अथअथ (अव्ययः)
वावा (अव्ययः)
हिंसिताहिंसित (√हिंस् + क्त, १.१)
चारुहासिनीचारु–हासिन् (१.१)
कृच्छ्रंकृच्छ्र (१.१)
प्राप्तंप्राप्त (√प्र-आप् + क्त, १.१)
हिहि (अव्ययः)
मांमद् (२.१)
नूनंनूनम् (अव्ययः)
यथोपेक्षितुम्यथा (अव्ययः)–उपेक्षितुम् (√उप-ईक्ष् + तुमुन्)
अर्हतिअर्हति (√अर्ह् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नै सा नू वा
हिंसि ता चारु हासि नी
कृ च्छ्रं प्रा प्तंहि मां नू नं
थो पेक्षितुर्हति