३.५८.३२

हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः ।
इत्येवं विलपन्रामः परिधावन्वनाद्वनम् ॥

पदच्छेदः

हाहा (अव्ययः)
प्रियेप्रिय (७.१)
क्वक्व (अव्ययः)
गतागत (√गम् + क्त, १.१)
भद्रेभद्र (८.१)
हाहा (अव्ययः)
सीतेतिसीता (१.१)–इति (अव्ययः)
पुनःपुनर् (अव्ययः)
पुनःपुनर् (अव्ययः)
इत्य्इति (अव्ययः)
एवंएवम् (अव्ययः)
विलपन्विलपत् (√वि-लप् + शतृ, १.१)
रामःराम (१.१)
परिधावन्परिधावत् (√परि-धाव् + शतृ, १.१)
वनाद्वन (५.१)
वनम्वन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हाप्रि येक्व ता द्रे
हा सी तेतिपु नःपु नः
त्ये वंवि न्रा मः
रि धान्व नाद्व नम्