३.५९.१७

एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः ।
सह सौमित्रिणा रामो विचेतुमुपचक्रमे ।
तौ वनानि गिरींश्चैव सरितश्च सरांसि च ॥

अन्वयः

लक्ष्मणेन by Lakshmana, सौहार्दात् very affectionately, एवम् in that way, उक्तः having been told, रामः Rama, समाहितः became composed, सौमित्रिणा सह along with Lakshmana the son of Sumitra, विचेतुम् to search, उपचक्रमे he started.

Summary

When Lakshmana consoled him so affectionately Rama became composed. He continued the search with Lakshmana, son of Sumitra.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तस्उक्त (√वच् + क्त, १.१)
तुतु (अव्ययः)
सौहार्दाल्लक्ष्मणेनसौहार्द (५.१)–लक्ष्मण (३.१)
समाहितःसमाहित (१.१)
सहसह (अव्ययः)
सौमित्रिणासौमित्रि (३.१)
रामोराम (१.१)
विचेतुम्विचेतुम् (√वि-चि + तुमुन्)
उपचक्रमेउपचक्रमे (√उप-क्रम् लिट् प्र.पु. एक.)
तौतद् (१.२)
वनानिवन (२.३)
गिरींश्गिरि (२.३)
चैव (अव्ययः)–एव (अव्ययः)
सरितश्सरित् (२.३)
(अव्ययः)
सरांसिसरस् (२.३)
(अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
मु क्तस्तु सौ हा र्दा ल्लक्ष्म णे
माहि तः सौ मित्रि णा रा मो
वि चेतुमुक्र मे तौ नानि
गि रीं श्चैरिश्च रांसि