३.५९.१८

निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ ।
तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ॥

पदच्छेदः

निखिलेननिखिल (३.१)
विचिन्वन्तौविचिन्वत् (√वि-चि + शतृ, १.२)
सीतांसीता (२.१)
दशरथात्मजौदशरथ–आत्मज (१.२)
तस्यतद् (६.१)
शैलस्यशैल (६.१)
सानूनिसानु (२.३)
गुहाश्गुहा (२.३)
(अव्ययः)
शिखराणिशिखर (२.३)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निखि लेवि चि न्व न्तौ
सी तां थात्म जौ
स्य शैस्य सा नूनि
गु हाश्चशि राणि