३.५९.५

यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः ।
एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः ॥

अन्वयः

सौम्ये O gentle lady, सीते Sita, विश्वस्तैः relied on you, यैः by those, मृगपोतकैः सह with the fawn, क्रीडसे play, एते these, त्वया by you, हीनाः separated, अस्राविलेक्षणाः eyes filled with tears, ध्यायन्ति they are thinking of you.

Summary

O gentle Sita those fawns who trusted you and played with you, are now separated from you. Brooding over you, their eyes are brimming with tears.

पदच्छेदः

यैःयद् (३.३)
सहसह (अव्ययः)
क्रीडसेक्रीडसे (√क्रीड् लट् म.पु. )
सीतेसीता (८.१)
विश्वस्तैर्विश्वस्त (√वि-श्वस् + क्त, ३.३)
मृगपोतकैःमृग–पोतक (३.३)
एतेएतद् (१.३)
हीनास्हीन (√हा + क्त, १.३)
त्वयात्वद् (३.१)
सौम्येसौम्य (८.१)
ध्यायन्त्य्ध्यायन्ति (√ध्या लट् प्र.पु. बहु.)
अस्राविलेक्षणाःअस्र–आविल–ईक्षण (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यैः क्री से सी ते
वि श्व स्तैर्मृ पो कैः
ते ही नास्त्व या सौ म्ये
ध्या न्त्य स्रावि लेक्ष णाः