३.६०.१२

या मे राज्यविहीनस्य वने वन्येन जीवतः ।
सर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता ॥

अन्वयः

राज्यविहीनस्य who lost his kingdom, वने in the forest, वन्येन food available in the forest, जीवतः lived, मे me, सर्वम् all, शोकम् grief, या वैदेही that Vaidehi, व्यपनयेत् remove sorrow, सा she, क्व where, गता नु has she gone?

Summary

Where could have gone that Vaidehi, who removed all my sorrows and sufferings when I lost my kingdom and survived on food available in the forest?

पदच्छेदः

यायद् (१.१)
मेमद् (६.१)
राज्यविहीनस्यराज्य–विहीन (√वि-हा + क्त, ६.१)
वनेवन (७.१)
वन्येनवन्य (३.१)
जीवतःजीवत् (√जीव् + शतृ, ६.१)
सर्वंसर्व (२.१)
व्यपनयच्छोकम्व्यपनयत् (√व्यप-नी लङ् प्र.पु. एक.)–शोक (२.१)
क्ववैदेही (१.१)
नुक्व (अव्ययः)
सानु (अव्ययः)
गतातद् (१.१)
गत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या मे राज्यवि हीस्य
ने न्ये जी तः
र्वंव्य च्छो कं
वै दे हीक्वनु सा ता