३.६०.१३

ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः ।
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ॥

अन्वयः

ज्ञातिपक्षविहीनस्य away from relatives, राजपुत्रीम् princess, अपश्यतः not seeing, जाग्रतः keeping awake, मम for me, रात्रयः nights, दीर्घाः long, भविष्यन्ति appear, मन्ये I think.

Summary

Away from relatives and away from the princess, I keep awake during nights which seem too long.

पदच्छेदः

ज्ञातिपक्षविहीनस्यज्ञाति–पक्ष–विहीन (√वि-हा + क्त, ६.१)
राजपुत्रीम्राजपुत्री (२.१)
अपश्यतःअपश्यत् (६.१)
मन्येमन्ये (√मन् लट् उ.पु. )
दीर्घादीर्घ (१.१)
भविष्यन्तिभविष्यन्ति (√भू लृट् प्र.पु. बहु.)
रात्रयोरात्रि (१.३)
मममद् (६.१)
जाग्रतःजाग्रत् (√जागृ + शतृ, ६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ञातिक्षवि हीस्य
रा पु त्रीश्य तः
न्ये दी र्घा वि ष्यन्ति
रात्र यो जाग्र तः