३.६०.२६

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः ।
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥

अन्वयः

लक्ष्मण O Lakshmana, वैदेही Vaidehi, कामरूपिभिः assuming any form at their will, राक्षसैः by the demons, भित्त्वाभित्त्वा breaking into pieces, विभक्ता वा she is torn, भक्षिता वा eaten or, भविष्यति would have, मन्ये I think.

Summary

O Lakshmana, Vaidehi might have been cut into pieces, and eaten up by the demons who can assume any form at their free will.

पदच्छेदः

मन्येमन्ये (√मन् लट् उ.पु. )
लक्ष्मणलक्ष्मण (८.१)
वैदेहीवैदेही (१.१)
राक्षसैःराक्षस (३.३)
कामरूपिभिःकामरूपिन् (३.३)
भित्त्वाभित्त्वा (√भिद् + क्त्वा)
भित्त्वाभित्त्वा (√भिद् + क्त्वा)
विभक्ताविभक्त (√वि-भज् + क्त, १.१)
वावा (अव्ययः)
भक्षिताभक्षित (√भक्षय् + क्त, १.१)
वावा (अव्ययः)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्येक्ष्म वै दे ही
राक्ष सैः का रूपि भिः
भि त्त्वा भि त्त्वावि क्ता वा
क्षि ता वा विष्यति