३.६०.३

तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ।
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ॥

अन्वयः

लक्ष्मणः Lakshmana, तीर्थवतीम् having landings, ताम् her, विचित्वा searching, रामम् to Rama, अब्रवीत् said, एनाम् her, तीर्थेषु at the landings, न पश्यामि do not see, मे when I, क्रोशतः called out, न शृणोति no one hears.

Summary

Searching for Sita at the landings of river Godavari, Lakshmana said to Rama, I am unable to find her at these landings.No one responds to my call.

पदच्छेदः

तांतद् (२.१)
लक्ष्मणस्लक्ष्मण (१.१)
तीर्थवतींतीर्थवत् (२.१)
विचित्वाविचित्वा (√वि-चि + ल्यप्)
रामम्राम (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
नैनां (अव्ययः)–एनद् (२.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
तीर्थेषुतीर्थ (७.३)
क्रोशतोक्रोशत् (√क्रुश् + शतृ, ६.१)
(अव्ययः)
शृणोतिशृणोति (√श्रु लट् प्र.पु. एक.)
मेमद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तांक्ष्म स्तीर्थ तीं
वि चि त्वा राब्र वीत्
नै नां श्यामि ती र्थेषु
क्रो तोशृ णोति मे