३.६०.३८

मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् ।
निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥

अन्वयः

मृदुम् gentle, लोकहिते for the welfare of the world, युक्तम् one engaged, दान्तम् selfrestraint, करुणवेदिनम् a compassionate, माम् me, त्रिदशेश्वराः the gods, निर्वीर्यः इति as weak, मन्यन्ते will consider, नूनम् certainly.

Summary

The gods will certainly consider me a man engaged in the welfare of the world, a man of selfrestraint and compassion, but at the same time a weak man.

पदच्छेदः

मृदुंमृदु (२.१)
लोकहितेलोक–हित (७.१)
युक्तंयुक्त (√युज् + क्त, २.१)
दान्तंदान्त (√दम् + क्त, २.१)
करुणवेदिनम्करुण–वेदिन् (२.१)
निर्वीर्यनिर्वीर्य (१.१)
इतिइति (अव्ययः)
मन्यन्तेमन्यन्ते (√मन् लट् प्र.पु. बहु.)
नूनंनूनम् (अव्ययः)
मांमद् (२.१)
त्रिदशेश्वराःत्रिदश–ईश्वर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मृ दुं लोहि ते यु क्तं
दा न्तंरु वेदि नम्
नि र्वीर्यति न्य न्ते
नू नं मांत्रि शेश्व राः