३.६०.३९

मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ।
अद्यैव सर्वभूतानां रक्षसामभवाय च ।
संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः ॥

अन्वयः

लक्ष्मण Lakshmana, माम् me, प्राप्य after attaining, गुणः merit, दोषः demerit, संवृत्तः been converted, पश्य see, शशिज्योत्स्नाम् light of the Moon, संहृत्यैव on effacing, उदितः risen, महान् mighty, सूर्यः Sun, इव like, तेजः glow, सर्वान् all, गुणान् qualities, संहृत्यैव effacing, अद्यैव now, सर्वभूतानाम् to all beings, रक्षसां च of demons, अभवाय for their extermination, प्रकाशते will shine forth.

Summary

O Lakshmana even demerits turn into merits when they come in contact with me. Just as the Sun shines, effacing the moonlight, my brilliance will outshine my demerits of exterminating all (wicked) beings including the demons.

पदच्छेदः

मांमद् (२.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
हिहि (अव्ययः)
गुणोगुण (१.१)
दोषःदोष (१.१)
संवृत्तःसंवृत्त (√सम्-वृत् + क्त, १.१)
पश्यपश्य (√पश् लोट् म.पु. )
लक्ष्मणलक्ष्मण (८.१)
अद्यैवअद्य (अव्ययः)–एव (अव्ययः)
सर्वभूतानांसर्व–भूत (६.३)
रक्षसाम्रक्षस् (६.३)
अभवायअभव (४.१)
(अव्ययः)
संहृत्यैवसंहृत्य (√सम्-हृ + ल्यप्)–एव (अव्ययः)
शशिज्योत्स्नांशशिन्–ज्योत्स्ना (२.१)
महान्महत् (१.१)
सूर्यसूर्य (१.१)
इवोदितःइव (अव्ययः)–उदित (√उत्-इ + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
मां प्राप्यहिगु णो दो षः सं वृ त्तः
श्यक्ष्म द्यैर्व भू ता नां
क्ष सा वा सं हृ त्यै
शि ज्यो त्स्नां हा न्सूर्य वोदि तः