३.६०.४८

मम रोषप्रयुक्तानां सायकानां बलं सुराः ।
द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम् ॥

अन्वयः

विमुक्तानाम् released, मम my, रोषप्रयुक्तानाम् released in rage, अतिदूरातिगामिनाम् of those that can reach very distant places, सायकानाम् of the arrows, बलम् power, सुराः gods, अद्य now, द्रक्ष्यन्ति will witness.

Summary

Now the gods will witness the power of my arrows released in great rage which can hit distant targets.

पदच्छेदः

मममद् (६.१)
रोषप्रयुक्तानांरोष–प्रयुक्त (√प्र-युज् + क्त, ६.३)
सायकानांसायक (६.३)
बलंबल (२.१)
सुराःसुर (१.३)
द्रक्ष्यन्त्य्द्रक्ष्यन्ति (√दृश् लृट् प्र.पु. बहु.)
अद्यअद्य (अव्ययः)
विमुक्तानाम्विमुक्त (√वि-मुच् + क्त, ६.३)
अमर्षाद्अमर्ष (५.१)
दूरगामिनाम्दूर–गामिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रोप्र यु क्ता नां
सा का नां लंसु राः
द्र क्ष्य न्त्यद्यवि मु क्ता ना
र्षा द्दू गामि नाम्